|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.259. अध्यायः 259
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति योगिप्रशंसादिपरव्यासवाक्यानुवादः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
व्यास उवाच। 12-259-0x(6265)(75699)
शरीराद्विप्रमुक्तं हि सूक्ष्मभूतं शरीरिणम्।
कर्मभिः परिपश्यन्ति शास्त्रोक्तैः शास्त्रचेतसः॥ 12-259-1(75700)
यथा मरीच्यः सहिताश्चरन्ति
गच्छन्ति तिष्ठन्ति च दृश्यमानाः।
देहैर्विमुक्तानि वरन्ति लोकां
स्तथैव सत्वान्यतिमानुषाणि॥ 12-259-2(75701)
प्रतिरूपं यथैवाप्सु तावत्सूर्यस्य लक्ष्यते।
सत्ववांस्तु तथा सत्वं प्रतिरूपं स पश्यति॥ 12-259-3(75702)
तानि सूक्ष्माणि सत्वानि विमुक्तानि शरीरतः।
तेन तत्वेन तत्वज्ञाः पश्यन्ति नियतेन्द्रियाः॥ 12-259-4(75703)
स्वपतां जाग्रतां चैष सर्वेषामात्मचिन्तितम्।
प्रधानाद्वैधयुक्तानां दह्यते कर्मजं रजः॥ 12-259-5(75704)
यथाऽहनि तथा रात्रौ यथा रात्रौ तथाऽहनि।
वशे तिष्ठति सत्वात्मा सततं योगयोगिनाम्॥ 12-259-6(75705)
तेषां नित्यं सदा नित्यो भूतात्मा सततं गुणैः।
सप्तभिस्त्वन्वितः सूक्ष्मैश्चरिष्णुरजरामरः॥ 12-259-7(75706)
मनोवुद्धिपराभूतः स्वदेहपरदेहवित्।
स्वप्नेष्वपि भवत्येष विज्ञाता सुखदुःखयोः॥ 12-259-8(75707)
तत्रापि लभते दुःखं तत्रापि लभते सुखम्।
कामं क्रोधं च तत्रापि कृत्वा व्यसनमृच्छति॥ 12-259-9(75708)
प्रीणितश्चापि भवति महतोऽर्थानवाप्य हि।
करोति पुण्यं तत्रापि जाग्रन्निव च पश्यति॥ 12-259-10(75709)
सदोष्मान्तर्गतश्चापि गर्भत्वं समुपेयिवान्।
दश मासान्वसन्कुक्षौ नैषोऽन्नमिव जीर्यते॥ 12-259-11(75710)
तमेतमतितेजोंशं भूतात्मानं हृदि स्थितम्।
तमोरजोभ्यामाविष्टा नानुपश्यन्ति मूर्तिषु॥ 12-259-12(75711)
योगशास्त्रपरा भूत्वा स्वमात्मानं परीप्सवः।
`तमोरजोभ्यां निर्मुक्तास्तं प्रपश्यन्ति मूर्तिषु।'
अनुच्छ्वासान्यमूर्तानि यानि वज्रोपमान्यपि॥ 12-259-13(75712)
पृथग्भूतेषु सृष्टेषु चतुर्ष्वाश्रमकर्मसु।
समाधौ योगमेवैतच्छाण्डिल्यः सममब्रवीत्॥ 12-259-14(75713)
विदित्वा सप्तसूक्ष्माणि षडङ्गं च महेश्वरम्।
प्रधानविनियोगज्ञः परं ब्रह्मानुपश्यति॥ ॥ 12-259-15(75714)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकोनषष्ट्यधिकद्विशततमोऽध्यायः॥ 259॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-259-8 स्वप्नेष्वपि स्वदेहं परदेहं च स्थूलादन्यं वेत्तीति तथा॥ 12-259-13 वज्रोपमानि ब्राह्मप्रलयेऽप्यविनाशीनि॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|